चतुःश्लोकी

This text does not support clickable word meanings.

कान्तस् ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।ब्रह्मादिसुरव्रजः सदयितस् त्वद्दासदासीगणः श्रीर् इत्य् एव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् ॥
यस्यास् ते महिमानम् आत्मन इव त्वद्वल्लभो ऽपि प्रभुर् नालं मातुम् इयत्तया निरवधिं नित्यानुकूलं स्वतः ।ताम् त्वां दास इति, प्रपन्न इति च स्तोष्याम्य् अहं निर्भयो लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥
श्रेयो त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद् रक्ष्यते नष्टं प्राक् तदलाभस् त्रिभुवनं संप्रत्य् अनन्तोदयम् ।श्रेयो न ह्य् अरविन्दलोचनमनःकान्ताप्रसादाद् ऋते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् ॥
शान्तानन्तमहाविभूति परं यद् ब्रह्म रूपं हरेर् मूर्तं ब्रह्म ततो ऽपि तत् प्रियतरं रूपं यद् अत्यद्भुतम् ।यान्य् अन्यानि यथासुखं विहरतो रूपाणि सर्वाणि तान्य् आहुः स्वैर् अनुरूपरूपविभवैर् गाढोपगूढानि ते ॥
« »