आदित्यहृदयम्

Click on words to see what they mean.

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥
दैवतैश्च समागम्य दृष्टुमभ्यागतो रणम् ।उपागम्याब्रवीद्राममगस्त्योभगवानृषिः ॥ २ ॥
राम राम महाबाहो श्रुणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ ३ ॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जयावहं जपेन्नित्यमक्षयं परमं शिवम् ॥ ४ ॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकमशमनमायुर्वर्धनमुत्तमम् ॥ ५ ॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥
सर्वदेवात्मकोह्येष तेजस्वी रश्मिभावनः ।एष देवांसुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ७ ॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।महेन्द्रो धनदः कालो यमः सोमोह्यांपतिः ॥ ८ ॥
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।सुवर्णसदृशो भानुः स्वर्णरेता दिवाकरः ॥ १० ॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।तिमिरोन्मथनः शंभ्रुस्त्वष्टा मार्तण्ड अंशुमान् ॥ ११ ॥
हिरण्यगर्भः शिशिरस्तपनो भास्करो रवि ।अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥
व्योमनाथस्तमोभेदि ऋग्युजुः सामपारगः ।घनदृष्टिरपां मित्रं विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥
नक्षत्रग्रहतारणामधिपो विश्वभावनः ।तैजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तुते ॥ १५ ॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥
नमः उग्राय वीराय सारङ्गाय नमो नमः ।नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ १८ ॥
ब्रह्मेशानाच्युतेशाय सूर्यादित्यवर्चसे ।भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।नमस्तमोऽभिनिघ्नाय रवये लोकसाक्षिणे ॥ २१ ॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।पाययत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥
वेदाश्च क्रतवश्चैव ऋतूनां फलमेव च ।यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥
पूजयस्वेनमेकाग्रो देवदेवं जगत्पतिम् ।एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसिएवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ २७ ॥
एतछ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।त्रिराचम्य शुचिर्भूत्वा धनुरादय वीर्यवान् ॥ २९ ॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३० ॥अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ३१
« »