<?xml version='1.0' encoding='utf-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0"><teiHeader><fileDesc><title>आदित्यहृदयम्</title><author>(missing)</author></fileDesc><publicationStmt><publisher>Ambuda (https://ambuda.org)</publisher><availability>TODO</availability></publicationStmt><notesStmt><note>This text has been created by direct export from Ambuda's proofing system.</note></notesStmt><encodingDesc><projectDesc><p>Ambuda is an online library of Sanskrit literature.</p></projectDesc></encodingDesc></teiHeader><text><body><lg n="1"><l>ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।</l><l>रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥</l></lg><lg n="2"><l>दैवतैश्च समागम्य दृष्टुमभ्यागतो रणम् ।</l><l>उपागम्याब्रवीद्राममगस्त्योभगवानृषिः ॥ २ ॥</l></lg><lg n="3"><l>राम राम महाबाहो श्रुणु गुह्यं सनातनम् ।</l><l>येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ ३ ॥</l></lg><lg n="4"><l>आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।</l><l>जयावहं जपेन्नित्यमक्षयं परमं शिवम् ॥ ४ ॥</l></lg><lg n="5"><l>सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।</l><l>चिन्ताशोकमशमनमायुर्वर्धनमुत्तमम् ॥ ५ ॥</l></lg><lg n="6"><l>रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।</l><l>पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥</l></lg><lg n="7"><l>सर्वदेवात्मकोह्येष तेजस्वी रश्मिभावनः ।</l><l>एष देवांसुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ७ ॥</l></lg><lg n="8"><l>एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।</l><l>महेन्द्रो धनदः कालो यमः सोमोह्यांपतिः ॥ ८ ॥</l></lg><lg n="9"><l>पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।</l><l>वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥ <sic>६</sic><corr>९</corr> ॥</l></lg><lg n="10"><l>आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।</l><l>सुवर्णसदृशो भानुः स्वर्णरेता दिवाकरः ॥ १० ॥</l></lg><lg n="11"><l>हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।</l><l>तिमिरोन्मथनः शंभ्रुस्त्वष्टा मार्तण्ड अंशुमान् ॥ ११ ॥</l></lg><lg n="12"><l>हिरण्यगर्भः शिशिरस्तपनो भास्करो रवि ।</l><l>अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥</l></lg><lg n="13"><l>व्योमनाथस्तमोभेदि ऋग्युजुः सामपारगः ।</l><l>घनदृष्टिरपां मित्रं विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥</l></lg><lg n="14"><l>आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।</l><l>कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥</l></lg><lg n="15"><l>नक्षत्रग्रहतारणामधिपो विश्वभावनः ।</l><l>तैजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तुते ॥ १५ ॥</l></lg><lg n="16"><l>नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।</l><l>ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥</l></lg><lg n="17"><l>जयाय जयभद्राय हर्यश्वाय नमो नमः ।</l><l>नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥</l></lg><lg n="18"><l>नमः उग्राय वीराय सारङ्गाय नमो नमः ।</l><l>नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ १८ ॥</l></lg><lg n="19"><l>ब्रह्मेशानाच्युतेशाय सूर्यादित्यवर्चसे ।</l><l>भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥</l></lg><lg n="20"><l>तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।</l><l>कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥</l></lg><lg n="21"><l>तप्तचामीकराभाय वह्नये विश्वकर्मणे ।</l><l>नमस्तमोऽभिनिघ्नाय रवये लोकसाक्षिणे ॥ २१ ॥</l></lg><lg n="22"><l>नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।</l><l>पाययत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥</l></lg><lg n="23"><l>एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।</l><l>एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥</l></lg><lg n="24"><l>वेदाश्च  क्रतवश्चैव ऋतूनां फलमेव च ।</l><l>यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥</l></lg><lg n="25"><l>एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।</l><l>कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥</l></lg><lg n="26"><l>पूजयस्वेनमेकाग्रो देवदेवं जगत्पतिम् ।</l><l>एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥</l></lg><lg n="27"><l>अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि</l><l>एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ २७ ॥</l></lg><lg n="28"><l>एतछ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।</l><l>धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥</l></lg><lg n="29"><l>आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।</l><l>त्रिराचम्य शुचिर्भूत्वा धनुरादय वीर्यवान् ॥ २९ ॥</l></lg><lg n="31"><l>रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।</l><l>सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३० ॥</l><l>अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः  परमं प्रहृष्यमाणः  ।</l><l>निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति  <corr>॥</corr>३१<corr>॥</corr></l></lg></body></text></TEI>