This page has been fully proofread once and needs a second look.

विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे ॥ ४ ॥
 
उदश्ञ्चद्भुजावल्लरी दृश्यमूलो-
च्चलद्भूभ्रूलताविभ्रमभ्राजदक्षम् ।

मरुत्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे ॥ ५ ॥
 
स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् ।

कलाबिन्दुगं गीयते योगिवर्यै-
र्गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥
 
यमेकाक्षरं निर्मलं निर्विकल्पं

गुणातीतमा नन्दमाकारशून्यम् ।

परं पारमोंकारमानायगर्
भं
वदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥