This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥
सर्वाणि तत्र भूतानि वसन्ति परमात्मनि ।
भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥
 
इति च विष्णुपुराणे ।
 
८५
 
बृहन्तो भानवो यस्य चन्द्रसूर्यादिगामिनः । तैर्विश्वं
भासयति यः सः बृहद्भानुः उच्यते । आदिः कारणम्, म
चासौ देवश्चेति आदिदेवः ; द्योतनादिगुणवान्देवः। सुर-
शत्रूणां पुरदारणात् पुरंदरः, 'वाचंयमपुरंदरौ च' इति
पाणिनिना निपातनात् ॥
 
अशोकस्तारणस्तारः
शूरः शौरिर्जनेश्वरः ।
 
अनुकूलः शतावर्तः
 
पद्मी पद्मनिभेक्षणः ॥ ५० ॥
 
शोकादिषडूमिवर्जितः अशोकः । संसारसागरात्तारय-
तीति तारणः । गर्भजन्मजरामृत्युलक्षणात् भयात् तारय-
तीति तारः । विक्रमणात् शूरः । शूरस्यापत्यं वसुदेवस्य
सुतः शौरिः । जनानां जन्तूनामीश्वरो जनेश्वरः । आत्म-
त्वेन हि सर्वेषाम् अनुकूलः । न हि स्वस्मिन्प्रातिकूल्यं स्वय-