This page has not been fully proofread.

८४
 
श्रीविष्णुसहस्रनाम-
स्कन्दः स्कन्दधरो धुयों
वरदो वायुवाहनः ।
वासुदेवो बृहद्भानु-
रादिदेवः पुरंदरः ॥ ४९ ॥
 
स्कन्दत्यमृतरूपेण स्रवति वायुरूपेण शोषयतीति वा
स्कन्दः । स्कन्द धर्मपथं धारयतीति वा स्कन्दधरः । धुरं
बहति समस्तभूतजन्मादिलक्षणामिति धुर्यः । अभिमतान् व-
रान् ददातीति, वरं दक्षिणां ददाति यजमानरूपेणेति वा
वरदः, 'गौर्वै वर.' इति श्रुतेः । वहतः सप्त आवहादीन्
वाहयतीति वायुवाहनः । वसति वासयत्याच्छादयति सर्व-
मिति वा वासुः, दीव्यति क्रीडते विजिगीषते व्यवहरति
योतते सूयते गच्छतीति वा देव:, वासुश्चासौ देवश्चेति
वासुदेवः ।
 
छायामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः ।
सर्वभूताधिवासश्च वासुदेवस्ततः स्मृतः ॥
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः ।
वासुदेवस्ततो ज्ञेयो योगिभिस्तत्त्वदर्शिभिः ॥
 
इति उद्योगपर्वणि ।