This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
८३
 

 
बाहु: ' इति श्रुतेः । महीं पूजां धरणी वा धरति इति मही-
धरः ॥
 
अच्युतः प्रथितः प्राणः
 
प्राणदो वासवानुजः ।
 
अपां निधिरधिष्ठान-
मप्रमत्तः प्रतिष्ठितः ॥ ४८ ॥
 
षड्भावविकारशून्यत्वात् अच्युतः, 'शाश्वतं शिवमच्यु-
नम्' इति श्रुतेः । जगदुत्पत्त्यादिकर्मभिः प्रख्यातः प्रथितः ।
सूत्रात्मना प्रजा: प्राणयतीति प्राणः ।
'प्राणो वा अहम-
स्मि' इति बढ़चा: । सुराणामसुराणां च प्राणं बलं ददाति
यति वेति प्राणदः । अदित्यां कश्यपाद्वासवस्यानुजो जात
इति वासवानुजः । आपो यत्र निधीयन्ते सः अपां निधिः,
' सरसामस्मि सागर: ' इति भगवद्वचनात् । अधितिष्ठन्ति
भूतानि उपादानकारणत्वेन ब्रह्म इति अधिष्ठानम्,
• मत्स्थानि सर्वभूतानि ' इति भगवद्वचनात् । अधिकारि
भ्यः कर्मानुरूपं फलं प्रयच्छन् न प्रमाद्यतीति अप्रमत्तः ।
स्वे महिम्नि स्थितः प्रतिष्ठितः, ' स भगवः कस्मिन्प्रतिष्ठित
इति स्वे महिम्नि' इति श्रुतेः ॥