This page has not been fully proofread.

८२
 
श्रीविष्णुसहस्रनाम-
इष्टोऽविशिष्टः शिष्टेष्टः
शिखण्डी नहुषो वृषः ।
 
क्रोधहा क्रोधकृतकर्ता
विश्वबाहुर्महीधरः ॥ ४७ ॥
 
परमानन्दात्मकत्वेन प्रियः इष्ट; यज्ञेन पूजित इति वा
इष्टः । सर्वेषामन्तर्यामित्वेन अविशिष्टः । शिष्टानां विदुषा-
मिष्टः शिष्टेष्टः; शिष्टा इष्टा अस्येति वा, • प्रियो हि ज्ञानि-
नोऽत्यर्थमहं स च मम प्रियः' इति भगवद्वचनात् ; शिष्टै-
रिष्ट: पूजित इति वा शिष्टेष्ट: । शिखण्डः कलापोऽलंकारो-
ऽस्येति शिखण्डी गोपवेषधरः । यतो नह्यति भूतानि माय-
या अतो नहुषः । कामानां वर्षणात् वृषः धर्मः
• वृषो
हि भगवान्धर्मः स्मृतो लोकेषु भारत। नैघण्टुकपदाख्यानै-
विद्धि मां वृष इत्युत' इति महाभारते । साधूनां क्रोधं
हन्तीति क्रोधहा। असाधुषु क्रोधं करोतीति क्रोधकृत ।
क्रियत इति कर्म जगत्, तस्य कर्ता, 'एतेषां पुरुषाणां यः
कर्ता यस्य वै तत्कर्म स वै वेदितव्य : ' इति श्रुतेः । क्रोध-
कृतां दैत्यादीनां कर्ता च्छेदक इत्येकं वा नाम । विश्वेषामा-
लम्बनत्वेन, विश्वे बाहवोऽस्येति वा विश्वबाहुः, 'विश्वतो-
-