This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
युगादिकृयुगावर्ती
नैकमायो महाशनः ।
 
अदृश्यो व्यक्तरूपश्च
 
सहस्रजिदनन्तजित् ॥ ४६ ॥
 
८१
 
युगादे: कालभेदस्य कर्तृत्वान युगादिकृत्; युगानामा
दिमारम्भं करोति इति वा ।
 
इति नाम्नां तृतीयं शतं विवृतम् ॥
युगानि कृतादीन्यावर्तयति कालात्मनेति युगावर्तः ।
एका माया न विद्यते बह्वीर्माया वहतीति नैकमायः ।
' नलोपो नञः' इति नकारलोपो न भवति, ञकारानुबन्धर-
हितस्यापि नकारस्य प्रतिषेधवाचिनो विद्यमानत्वात् । कल्पा-
न्ते सर्वग्रसनात् महदशनमस्येति महाशनः । सर्वेषां बुद्धी-
न्द्रियाणामगम्य अदृश्यः । स्थूलरूपेण व्यक्तं रूपमस्येति
व्यक्तरूपः, स्वयं प्रकाशमानत्वात् योगिनां व्यक्तरूपः
इति वा । सहस्राणि असुराणां युद्धे जयतीति सहस्रजित् ।
सर्वभूतानि युद्धक्रीडादिषु सर्वत्राचिन्त्यशक्तितया जयतीति
अनन्तजित् ॥
 
M B. 6