This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
तथा धर्मा: ज्ञानादयो गुणा: पराक्रमश्च यस्य सः सत्य-
धर्मपराक्रमः ॥
 
८०
 
भूतभव्यभवन्नाथः
 
पवनः पावनोऽनलः ।
 
कामहा कामकृत्कान्तः
 
कामः कामप्रदः प्रभुः ॥ ४५ ॥
 
भूतभव्यभवतां भूतग्रामाणां नाथः, तैर्याच्यते तानुपत-
पति तेषामष्टे शास्तीति वा भूतभव्यभवन्नाथः । पवत
पवनः पवतामस्मि' इति भगवद्वचनात् ।
 
"
 
इति पवनः,
 
पावयतीति पावन,
 
भीषास्मांद्वातः पवते' इति श्रुतेः ।
अनान् प्राणान् आत्मत्वेन लातीति जीव: अनलः ;
णलतेर्गन्धवाचिनो नञ् पूर्वाद्वा, 'अगन्धमरसम्' इति श्रुतेः;
न अलं पर्याप्तमस्व विद्यत इति वा । कामान् हन्ति मुमु-
क्षूणां भक्तानां हिंसकानां चेति कामहा । सात्त्विकानां
कामान् करोतीति कामकृत् ; कामस्य प्रद्युम्नस्य जनकत्वाद्वा ।
अभिरूपतमः कान्तः । काम्यते पुरुषार्थाभिकातिभिरिति
कामः । भक्तेभ्यः कामान् प्रकर्षेण ददातीति कामप्रदः ।
प्रकर्षेण भवनात् प्रभुः ॥
 
6