This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
धर्मज्ञानवैराग्यादिभिः उपेतत्वात् ऋद्धः । स्पष्टम् उदात्तम्
ओंकारलक्षणम् अक्षरम् अस्येति स्पष्टाक्षरः । ऋग्यजु:सा-
मलक्षणो मन्त्रः; मन्त्रबोध्यत्वाद्वा मन्त्रः । संसारतापतिग्मां-
शुतापतापितचेतसां चन्द्रांशुरिवाहादकत्वात् चन्द्रांशुः । भा
करतिसाधर्म्यात् भास्करद्युतिः ॥
 
अमृतांशुद्भवो भानुः
 
शशविन्दुः सुरेश्वरः ।
 
औषधं जगतः सेतुः
 
सत्यधर्मपराक्रमः ॥ ४४ ॥
 
७९
 
मध्यमाने पयोनिधौ अमृतांशोश्चन्द्रस्य उद्भवो यस्मात्
स: अमृतांशुद्भवः । भातीति भानुः, 'तमेव भान्तम्
इत्यादिश्रुतेः । शश इव विन्दुर्लाञ्छनमस्येति शशविन्दु. चन्द्रः
 
तद्वत्प्रजा: पुष्णातीति शशविन्दु, 'पुष्णामि चौपधीः सर्वाः
सोमो भूत्वा रसात्मकः' इति भगवद्वचनात् । सुराणां
देवानां शोभनदातॄणां च ईश्वर: सुरेश्वरः । संसाररोगभे-
षजत्वात् औषधम् । जगतां समुत्तारणहेतुत्वात् असभेदका-
रणत्वाद्वा सेतुवत् वर्णाश्रमादीनां जगतः सेतुः, एप सेतु-
विधरण एषां लोकानामसंभेदाय' इति श्रुतेः । सत्या अवि-
6
 
,