This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
यज्ञरूपेणेति शिपिविष्टः 'यज्ञो वै विष्णुः पशव: शिपिर्यज्ञ
एव पशुषु प्रतितिष्ठति' इति श्रुतेः । शिपयो रश्मयः,
तेषु निविष्ट इति वा ।
 
७८
 
शैत्याच्छयनयोगाच्च शीति वारि प्रचक्षते ।
तत्पानाद्रक्षणाचैव शिपयो रश्मयो मताः ॥
तेषु प्रवेशाद्विश्वेश: शिपिविष्ट इहोच्यते ।
 
सर्वेषां प्रकाशनशीलत्वात् प्रकाशनः ॥
ओजस्तेजोडुनिधरः
 
प्रकाशात्मा प्रतापनः ।
 
ऋ: स्पष्टाक्षरो मन्त्र-
चन्द्रांशुर्भास्करद्युतिः ॥ ४३ ॥
 
ओजः प्राणबलम्, तेज: शौर्यादयो गुणाः, द्युतिः
दीप्तिः, ताः धारयतीति ओजस्तेजोद्युतिधरः । अथवा,
ओजः तेजः इति नामद्वयम्, 'बलं बलवतां चाहं तेजस्तेज-
स्त्रिनामहम्' इति भगवद्वचनात् । द्युतिं ज्ञानलक्षणां दीप्तिं
धारयतीति द्युतिधरः । प्रकाशस्वरूप: आत्मा यस्य सः प्रका-
शात्मा । सवित्वादिविभूतिभिः विश्वं प्रतापयतीति प्रतापनः ।