This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
सुभुजो दुर्धरो वाग्मी
महेन्द्रो वसुदो वसुः ।
 
नैकरूपो बृहद्रूपः
 
शिपिविष्टः प्रकाशनः ॥ ४२ ॥
 
शोभना भुजा: जगद्रक्षाकरा अस्येति सुभुजः । पृथि-
व्यादीन्यपि लोकधारकाण्यन्यैः धारयितुमशक्यानि धार-
यन् न केनचिद्धारयितुं शक्यत इति दुर्धरः दुःखेन
;
ध्यानसमये मुमुक्षुभिः हृदये धार्यत इति वा दुर्धरः ।
यतो निःसृता ब्रह्ममयी वाक् तस्मात् वाग्ग्मी । महांश्चा-
साविन्द्रश्चेति महेन्द्रः, ईश्वराणामपीश्वरः । वसु धनं ददा-
तीति वसुदः, 'अन्नादो बसुदानः' इति श्रुतेः । दीय-
मानं तद्वस्वपि स एवेति वसुः, आच्छादयत्यात्मन स्वरूपं
माययेति वा वसुः; अन्तरिक्षे एव वसति नान्यत्रेति
असाधारणेन बसनेन वायुर्वा वसुः, 'वसुरन्तरिक्षसत्
इति श्रुतेः । एकं रूपमस्य न विद्यत इति नैकरूपः,
'इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतेः, 'ज्योतींषि
विष्णुः' इत्यादिस्मृतेश्च । बृहत् महत् वराहादिरूपम् अ-
स्येति
बृहद्रूपः । शिपय:
: पशव:, तेषु विशति प्रतितिष्ठति