This page has not been fully proofread.

७६
 
श्रीविष्णुसहस्रनाम-
टकृत् । निरञ्जनः शुचिः । सिद्धो निर्वृत्त अर्ध्यमानोऽर्थो-
इस्येति सिद्धार्थः, 'सत्यकामः' इति श्रुतेः । सिद्धो निष्पन्नः
संकल्पोऽस्येति सिद्धसंकल्पः, 'सत्यसंकल्प:' इति श्रुतेः ।
सिद्धिं फलं कर्तृभ्यः स्वाधिकारानुरूपतो ददातीति सिद्धि-
दः । सिद्धेः साधकत्वात् सिद्धिसाधनः ॥
 
वृषाही वृषभो विष्णु-
वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च
 
विविक्तः श्रुतिसागरः ॥ ४१ ॥
 
वृषो धर्म: पुण्यम्, तदेव अहः द्वादशाहादिः ऋतु:
वृषाहः ; मोऽस्यास्तीति वृषाही । वृषाह इत्यत्र 'राजाह:-
सखिभ्यष्टच्' इति टच्प्रत्यय: समासान्तः । वर्षत्येष भक्तेभ्य:
कामानिति वृषभः । विष्णु: 'विष्णुर्विक्रमणात्' इति व्या-
सेनोक्तेः । वृषरूपाणि सोपानपर्वाणि आहुः परं धामारु-
रुक्षोः इत्यतो वृषपर्वा । प्रजा: वर्षतीव उदरमस्येति वृषो
दरः । वर्धयतीति वर्धनः । प्रपञ्च रूपेण वर्धत इति वर्ध-
मानः । इत्थं वर्धमानोऽपि पृथगेव तिष्ठतीति विविक्तः ।
श्रुतयः सागरे इव अत्र निधीयन्ते इति श्रुतिसागरः ॥
 
-