This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
आपो वै नरसूनवः । ता यदखायनं पूर्वं तस्मान्नारायण.
 
स्मृतः' इति मनुवचनाद्वा नारायणः ।
 
नारायणाय नम इत्ययमेव सत्यः
संसारघोरविषसंहरणाय मन्त्रः ।
शृण्वन्तु भव्यमतयो यतयोऽस्तरागा
उच्चस्तरामुपदिशाम्यहमूर्ध्वबाहुः ॥
 
इति श्रीनारसिंहपुराणे ।
 
नयतीति नरः प्रोक्तः परमात्मा सनातनः ।
 
असंख्येयोऽप्रमेयात्मा
 
७५
 
इति व्यासवचनम् ॥
 
विशिष्टः शिष्टकृच्छुचिः ।
 
सिद्धार्थ सिद्धसंकल्पः
 
सिद्धिदः सिद्धिसाधनः ॥ ४० ॥
 
यस्मिन् संख्यानामरूपभेदादिः न विद्यत इति असंख्ये-
यः । अप्रमेय आत्मा स्वरूपमस्येति अप्रमेयात्मा । अतिशेत
सर्वम् अतो विशिष्टः । शिष्टं शासनं करोतीति शिष्टकृत् ;
शिष्टान् करोति पालयतीति वा । सामान्यवचनो धातुर्विशे-
षवचनो दृष्टः कुरु काष्ठानीत्याहरणे यथा, तद्वदिति वा शि-