This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
कारुणिक इत्यर्थ: ; अवाप्तसर्वकामत्वाद्वा । विश्वं वृष्णोती-
ति विश्व । निवृषा प्रागल्भ्ये । विश्वं भुझे भुनक्ति
पालयतीति वा विश्वभुक् । हिरण्यगर्भादिरूपेण विविधं भव-
तीति विभुः, 'नित्यं विभुम्' इति मन्त्रवर्णात् । सत्करोति
पूजयतीति सत्कर्ता । पूजितैरपि पूजित: सत्कृतः । न्याय
प्रवृत्ततया साधुः; साधयतीति वा; साध्यभेदानुपादानात्
साध्यमात्रसाधको वा । जनान् संहारसमये अपह्नुते अपन-
यतीति दुः; जहात्यविदुषोऽभक्तान् अपनयति परमिति
वा । नर आत्मा, ततो जातान्याकाशादीनि नाराणि कार्या-
णि तानि कार्याणि अयं कारणात्मना व्याप्नोति ; अतश्च
तान्ययनमस्येति नारायणः,
यच्च किंचिजगत्स दृश्यते
श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः '
इति मन्त्रवर्णात् ।
 
6
 
नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।
तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥
 
इति महाभारते ।
 
6 यत्प्रयन्त्य-
नाराणां जीवानामयनत्वात् प्रलये इति वा,
भिसंविशन्ति' इति श्रुतेः । 'नाराणामयनं यस्मात्तस्मान्नारा-
यणः स्मृतः' इति ब्रह्मवैवर्तात्, 'आपो नारा इति प्रोक्ता
 
-