2022-09-09 02:54:47 by ambuda-bot
This page has not been fully proofread.
श्रीविष्णुसहस्रनाम -
वा अनिमिषः । भूततन्मात्ररूपां वैजयन्त्याख्यां स्रजं नित्यं
विभर्तीिति स्रग्वी । वाचो विद्यायाः पतिः वाचस्पति: ;
सर्वार्थविषया धीर्बुद्धिरस्य इति उदारधी: ; वाचस्पतिरुदा-
रधीः इत्येकं नाम ॥
७२
अग्रणीग्रमणीः श्रीमा
नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा
सहस्राक्षः सहस्रपात् ॥ ३७ ॥
अयं प्रकृष्टं पदं नयति मुमुक्षून् इति अग्रणीः । भूत-
ग्रामस्य नेतृत्वात् ग्रामणीः । श्रीः कान्तिः सर्वातिशयिता
अस्येति श्रीमान् । प्रमाणानुग्राहकोऽभेदकारकस्तकर्को न्यायः ।
जगद्यन्त्रनिर्वाहको नेता श्वसनरूपेण भूतानि चेष्टयतीति
समीरणः । सहस्राणि मूर्धानोऽस्येति सहस्रमूर्धा । विश्व-
स्यात्मा विश्वात्मा । सहस्राण्यक्षीणि यस्य सः सहस्राक्षः ।
'सहस्रशीर्षा पुरुषः ।
।
।
सहस्राणि पादा अस्येति सहस्रपात् ।
सहस्राक्षः सहस्रपात्' इति श्रुतेः ॥
आवर्तनो निवृत्तात्मा
संवृतः संप्रमर्दनः ।