This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
हिरण्यनाभः; हितरमणीयनाभित्वाद्वा । बदरिकाश्रमे नर-
नारायणरूपेण शोभनं तपश्चरतीति सुतपाः । 'मनसश्चेन्द्रि
याणां च यैकाग्र्यं परमं तपः' इति स्मृतेः पद्ममि
सुवर्तुला नाभिरस्येति, हृदयपद्मस्य नाभौ मध्ये प्रकाश
नाद्वा पद्मनाभः । पृषोदरादित्वात्साधुत्वम् । प्रजानां पति
पिता प्रजापतिः ॥
 
अमृत्युः सर्वहक्सिहः
 
संधाता संधिमान्स्थिरः ।
अजो दुर्मर्षणः शास्ता
 
विश्रुतात्मा सुरारिहा ॥ ३५ ॥
 
मृत्युर्विनाशस्तद्धेतुर्वा अस्य न विद्यते इति अमृत्युः
प्राणिनां कृताकृतं सर्व पश्यति स्वाभाविकेन बोधेनो
सर्वक् । हिनस्तीति सिंहः । पृषोदरादित्वात्साधुत्वम् ।
 
इति नाम्नां द्वितीयं शतं विवृतम् ॥
 
कर्मफलै: पुरुषान संधत्त इति संधाता ।
च स एवेति संधिमान् । सबैकरूपत्वात् स्थिरः ।
गच्छति क्षिपति इति वा अजः ।