This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
६९
 
विन्दः । 'अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ।
गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम्'
इति । 'गौरेषा तु तथा वाणी तां च विन्दयते भवान् ।
गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान्' इति च
हरिवंशे । गौर्वाणी, तां विन्दतीति गोविदः, तेषां पति-
विशेषेणेति गोविदां पतिः ॥
 
मरीचिमनो हंसः
 
सुपर्णो भुजगोत्तमः ।
 
हिरण्यनाभः सुतपाः
 
पद्मनाभः प्रजापतिः ॥ ३४ ॥
 
तेजस्विनामपि तेजस्त्वात् मरीचिः, 'तेजस्तेजस्विनाम-
हम्' इति भगवद्वचनात् । स्वाधिकारात्प्रमाद्यती: प्रजा दमयितुं
शीलं यस्य वैवस्वतादिरूपेण इति दमनः । अहंस इति
तादात्म्यभाविनः संसारभयं हन्तीति हंसः । पृषोदरादि-
त्वाच्छब्दसाधुत्वम् । हन्ति गच्छति सर्वशरीरेष्विति वा,
'हसः शुचिषत्' इति मन्त्रवर्णात् । शोभनपर्णत्वात्
सुपर्णः, 'द्वा सुपर्णा' इति मन्त्रवर्णात् । भुजेन गच्छता-
मुत्तमो भुजगोत्तमः । हिरण्यमिव कल्याणी नाभिरस्येति