This page has not been fully proofread.

६८
 
श्रीविष्णुसहस्रनाम-
ति महायुतिः; 'स्वयं ज्योतिः' इति श्रुतेः, 'ज्योतिषां
ज्योति: ' इत्यादेश्च । इदं तदिति निर्देष्टं यन्न शक्यते परस्मै
स्वसंवेद्यत्वात् तत् अनिर्देश्यं वपुरस्येति अनिर्देश्यवपुः ।
ऐश्वर्यलक्षणा समग्रा श्रीर्यस्य सः श्रीमान् । सर्वैः प्राणिभिर-
मेया बुद्धिरात्मा यस्य सः अमेयात्मा । महान्तमद्रि मन्दरं
गोवर्धनं च अमृतमथने गोरक्षणे च धृतवानिति महाद्रि-
धृक् ॥
 

 
महेष्वासो महीभर्ता
 
श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो
 
गोविन्दो गोविदां पतिः ॥ ३३ ॥
 
महानिष्वास इषुक्षेपो यस्य सः महेष्वासः । एकार्णवा-
प्लुतां देवीं महीं बभारेति महीभर्ता । यस्य वक्षस्यनपा-
यिनी श्रीर्वसति सः श्रीनिवासः । सतां वैदिकानां साधूनां
पुरुषार्थसाधनहेतुः सतां गतिः । न केनापि प्रादुर्भावेषु
निरुद्ध इति अनिरुद्धः । सुरानानन्दयतीति सुरानन्दः ।
' नष्टां वै धरणीं पूर्वमविन्दं वै गुहागताम् । गोविन्द इति
तेनाहं देवैर्वाग्भिरभिष्टुतः' इति मोक्षधर्मवचनात् गो-