2022-09-09 02:54:46 by ambuda-bot
This page has not been fully proofread.
श्रीविष्णुसहस्रनाम -
मन्त्रवर्णात् । स एव जगत्रयं क्रममाण: प्रांशुरभूदिति प्रां-
शुः ।
। 'तोये तु पतिते हस्ते वामनोऽभूदवामनः । सर्वदेवम-
यं रूपं दर्शयामास वै प्रभुः ॥ भूः पादौ द्यौः शिरश्चास्य
चन्द्रादित्यौ च चक्षुषी' इत्यादि विश्वरूपं दर्शयित्वा 'तस्य
विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे । नभः प्रक्रममाणस्य
नाभ्यां तौ समवस्थितौ ॥ दिवमाक्रममाणस्य जानुमूले व्य
वस्थितौ ।' इति प्रांशुत्वं दर्शितं हरिवंशे । न मोघं चेष्टितं
यस्य सः अमोघः । स्मरतां स्तुवताम् अर्चयतां च पावन-
त्वात् शुचिः । 'अस्पर्शच महाञ्शुचिः' इति मन्त्रवर्णात् ।
बलप्रकर्षशालित्वात् ऊर्जितः । अतीत्येन्द्रं स्थितो ज्ञानैश्वर्या-
दिभिः स्वभावसिद्धैरिति अतीन्द्रः । सर्वेषां प्रतिसंहारात्
संग्रहः । सृज्यरूपतया, सर्गहेतुत्वाद्वा सर्गः । एकरूपेण ज
न्मादिरहिततया वृत आत्मा येन सः धृतात्मा । स्वेषु स्वेष्व-
धिकारेषु प्रजा नियमयतीति नियमः । अन्तर्यच्छतीति
यमः ॥
वेद्यो वैद्यः सदायोगी
वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो
महोत्साहो महाबलः ॥ ३१ ॥