This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 

 
प्रकाशैकरसत्वात् भ्राजिष्णुः । भोज्यरूपतया प्रकृति-
र्माया भोजनम् इत्युच्यते । पुरुषरूपेण तां भने इति
भोक्ता । हिरण्याक्षादीन सहते अभिभवतीति सहिष्णुः ।
हिरण्यगर्भरूपेण जगदादावुत्पद्यते स्वयमिति जगदादिजः ।
अघं न विद्यतेऽस्येति अनवः, 'अपहतपाप्मा' इति श्रुतेः ।
विजयते ज्ञानवैराग्यैश्वर्यादिभिर्गुणैः विश्वमिति विजयः ।
यतोऽतिशेते सर्वभूतानि स्वभावतः अतः जेता । विश्वं
योनिरस्येति विश्वश्चासौ योनिश्चेति वा विश्वयोनिः ।
पुनः पुनः शरीरेषु वसति क्षेत्रज्ञरूपेणेति पुनर्वसुः ॥
 
"
 
उपेन्द्रो वामनः प्रांशु-
रमोघः शुचिरूर्जितः ।
 
अतीन्द्रः संग्रहः सर्गो
 
धृतात्मा नियमो यमः ॥ ३० ॥
 
इन्द्रमुपगतोऽनुजत्वेनेति उपेन्द्र यद्वा उपरि इन्द्र
उपेन्द्रः " ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः ।
उपेन्द्र इति कृष्ण त्वां गास्यन्ति भुवि देवताः' इति हरिवं-
शे । बलिं वामनरूपेण याचितवानिति वामनः । संभजनीय
इति वा, ' मध्ये वामनमासीनं विश्वे देवा उपासते' इति
 
S. M. B 5