This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
सर्गादिषु पृथग्विभूतयश्चतस्रः आत्मनः यस्य सः चतु-
रात्मा ।
 
ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः ।
विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥
विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज ।
स्थितेनिमित्तभूतस्य विष्णोरेता विभूतयः ॥
रुद्रः कालोऽन्तकाद्याश्च समस्ताञ्चैव जन्तवः ।
चतुर्था प्रलयायैता जनार्दनविभूतयः ॥
 
इति वैष्णवपुराणे ।
 
`व्यूह्यात्मानं चतुर्धा वै वासुदेवादिमूर्तिभिः । सृष्ट्या-
दीन्प्रकरोत्येप विश्रुतात्मा जनार्दनः' इति व्यासवचनान्
चतुर्व्यूहः । दंष्ट्राश्चतस्रो यस्येति चतुर्दष्ट्र: नृसिंहविग्रहः ।
सादृश्याद्वा शृङ्गं दंष्त्रे॒त्युच्यते, 'चत्वारि शृङ्गा' इति श्रुतेः ।
चत्वारो भुजा अस्येति चतुर्भुजः ॥
 
भ्राजिष्णुर्भोजनं भोक्ता
सहिष्णुर्जगदादिजः ।
 
अनघो विजयो जेता
 
विश्वयोनिः पुनर्वसुः ॥ २९ ॥