This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
सर्वे वेदाः सर्वविद्या: सशास्त्राः
 
सर्वे यज्ञाः सर्व इज्याश्च कृष्णः ।
 
विदुः कृष्णं ब्राह्मणास्तत्त्वतो ये
 
६३
 
तेषां राजन्सर्वयज्ञाः समाप्ताः ॥
 
इति महाभारते ।
अव्यङ्गः ज्ञानादिभिः परिपूर्णोऽविकल उच्यते ; व्यङ्गो
व्यक्तिर्न विद्यत इति वा अव्यङ्गः, 'अव्यक्तोऽयम्' इति
भगवद्वचनात् । वेदा अङ्गभूता यस्य सः वेदाङ्गः । वेदा-
न्विन्ते विचारयतीति वेदवित् । क्रान्तदर्शी कविः सर्वहक्,
'नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुतेः, 'कविर्मनीषी' इत्यादि-
मन्त्रवर्णात् ॥
 
लोकाध्यक्षः सुराध्यक्षो
धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूह-
चतुर्दष्टश्चतुर्भुजः ॥ २८ ॥
 
लोकानध्यक्ष्यतीति लोकाध्यक्षः सर्वेषां लोकानां प्राधा-
न्येनोपद्रष्टा । लोकपालादिसुराणामध्यक्ष सुराध्यक्षः ।
धर्माधर्मौ साक्षादीक्षतेऽनुरूपं फलं दातुं तस्मात् धर्माध्यक्षः ।
कृतश्च कार्यरूपेण अकृतश्च कारणरूपेणेति कृताकृतः ।