This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
इति श्रुतेः । ऐश्वर्य प्रतापो वा तपो महद्स्येति वा महा-
नपाः ॥
 
सर्वगः सर्वविद्भानु-
विष्वक्सेनो जनार्दनः ।
 
वेदो वेदविद्व्यङ्गो
 
वेदाङ्गो वेदवित्कविः ॥ २७ ॥
 
,
 
5
 
सर्वत्र गच्छतीति सर्वगः कारणत्वेन व्याप्तत्वात् सर्वत्र ।
सर्वे वेत्ति विन्दतीति वा सर्ववित्; भातीति भानु:, 'तमेव
भान्तमनु भाति सर्वम्' इति श्रुतेः । यदादित्यगतं तेज: '
इत्यादिस्मृतेश्च ; सर्वविच्चासौ भानुश्चेति सर्वविद्भानुः ।
विष्वगञ्चति पलायते दैत्यसेना यस्य रणोद्योगमात्रेणेति
विष्वक्सेनः । जनान् दुर्जनानर्दयति हिनस्ति, नरकाढीन्गम-
यतीति वा जनार्दनः; जनैः पुरुषार्थमभ्युदयनिः श्रेयसल-
क्षणं याच्यते इति जनार्दनः । वेदयतीति वेदः, 'तेषामे-
वानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञान-
दीपेन भास्वता इति भगवद्वचनात् । यथावत् वेदार्थ वे-
त्तीति वेदवित् वेदान्तकद्वेदविदेव चाहम्' इति भगव-
द्वचनात् ।
 
,
 

 
.