This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
रुड़ो बहुशिरा बभ्रु-
विश्वयोनिः शुचिश्रवाः ।
 
अमृतः शाश्वतस्थाणु-
र्वरारोहो महातपाः ॥ २६ ॥
 
संहारकाले प्रजा: संहरन् रोदयतीति रुद्रः । रुदं राति
ददातीति वा, रुर्दु:खं दुःखकारणं वा, द्रावयतीति वा रुद्रः ।
रोदनाद्रावणाद्वापि रुद्र इत्युच्यते, 'रुर्दु:खं दुःखहेतुं वा
विद्रावयति स प्रभुः । रुद्र इत्युच्यते तस्माच्छिवः परमका-
रणम' इति लिङ्गपुराणवचनात् । बहूनि शिरांसि यस्येति
बहुशिराः, 'सहस्रशीर्षा पुरुष: ' इति मन्ववर्णात् । वि-
भर्ति लोकानिति बभ्रुः । विश्वस्य कारणत्वात् विश्वयोनिः ।
शुचीनि श्रवांसि नामानि श्रवणीयान्यस्येति शुचिश्रवाः । न
विद्यते मृतं मरणमस्येति अमृतः, 'अजरोऽमरः' इति
श्रुतेः । शाश्वतश्चासौ स्थाणुश्चेति शाश्वतस्थाणुः । वर
आरोहोऽङ्कोऽस्येति वरारोहः । वरमारोहणं यम्मिन्निति वा,
आरूढानां पुनरावृत्त्यसंभवात्, 'न च पुनरावर्तते' इति
श्रुतेः, ' यं प्राप्य न निवर्तन्ते' इति स्मृतेश्च । महत्सृज्य-
विषयं तपो ज्ञानमस्येति महातपाः,
 
'
 
यत्र ज्ञानमयं तपः