This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
यस्य सः वसुमनाः । रागद्वेषादिभिः केशैर्मदादिभिरुपले-
शैव यतो न कलुषितं चित्तं ततस्तन्मनः प्रशस्तम् । अवि-
तथरूपत्वात्परमात्मा सत्यः, 'सत्यं ज्ञानमनन्तं ब्रह्म' इति
श्रुतेः । मूर्तामूर्तात्मकत्वाद्वा, 'सच्च त्यच्चाभवत्' इति श्रुतेः ।
मदिति प्राणः, तीत्यन्नम्, समिति दिवाकरः, तेन प्राणान्नादि-
त्यरूपाद्वा सत्यः, 'सदिति प्राणास्तीत्यन्नं यमित्यसावादित्य : '
इति श्रुतेः । सत्सु साधुत्वाद्वा सत्यः । सम आत्मा मनो
यस्य रागद्वेषादिभिरदूषितः सः समात्मा । सर्वभूतेषु सम
एक आत्मा वा, 'सम आत्मेति विद्यात्' इति श्रुतेः । सर्वै-
रप्यर्थजातैः परिच्छिन्नो मित: ; सर्वैरपरिच्छिन्नोऽमित इति
असंमितः; सर्वकालेषु सर्वविकाररहितत्वात् समः; मया
लक्ष्म्या सह वर्तत इति वा समः । पूजितः स्तुत: संस्मृतो
वा सर्वफलं ददाति न वृथा करोतीति अमोघः । अवितथ-
संकल्पाद्वा, 'सत्यकाम. सत्यसंकल्प : ' इति श्रुतेः । हृदयस्थं
पुण्डरीकमश्नुते व्याप्नोति तत्रोपलक्षित इति पुण्डरीकाक्षः,
' यत्पुण्डरीकं पुरमध्यस स्थम्' इति श्रुतेः; पुण्डरीकाकारे
उभे अक्षिणी अस्येति वा । धर्मलक्षणं कर्मास्येति वृषकर्मा ।
धर्मार्थमाकृतिः शरीरं यस्य सः वृषाकृतिः । 'धर्मसंस्थापना-
थीय संभवामि युगे युगे' इति भगवद्वचनात् ॥