This page has not been fully proofread.

च भगवद्वचनम-
र्मणा' इति ॥
 
-
 
स्तोत्रभाष्यम् ।
 
6
 
यस्मान्न च्युतपूर्वोऽहमच्युतस्तेन क
 
इति नाम्नां प्रथमं शतं विवृतम् ॥
 
वर्षणात् सर्वकामाणां धर्मो वृषः; कात् तोयात् भूमि-
मपादिति कपिर्वराह; वृषरूपत्वात्कषिरूपत्वाच्च वृषा
कपिः । 'कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते । तस्मा-
वृषाकपिं प्राह काश्यपो मां प्रजापतिः' इति महा-
भारते । इयानिति मातुं परिच्छेत्तं न शक्यते आत्मा अस्येति
अमेयात्मा । सर्वसंबन्धविनिर्गतः सर्वयोगविनिःसृतः,
' असङ्गो ह्ययं पुरुष. ' इति श्रुतेः । नानाशास्त्रोक्ताद्योगा-
दपगतत्वाद्वा ॥
 
वसुर्वसुमनाः सत्यः
समात्मासंमितः समः ।
अमोघः पुण्डरीकाक्षो
 
वृषकर्मा वृषाकृतिः ॥ २५ ॥
 
वसन्ति सर्वभूतानि अत्र, तेपु अयमपि वसतीति वा
वसुः ; 'वसूनां पावकश्चास्मि' इत्युक्तो वा वसुः ।
वसुशब्देन धनवाचिना प्राशस्त्यं लक्ष्यते । प्रशस्तं मनो