This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-

 
रः इत्युक्त । व्यालवग्रहीतुमशक्यत्वात् व्यालः । प्रतीति:
प्रज्ञा प्रत्ययः, 'प्रज्ञानं ब्रह्म ' इति श्रुतेः । सर्वाणि दर्शनात्म-
कानि अक्षीणि यस्य सः सर्वदर्शनः । सर्वात्मकत्वात् 'वि
श्वतश्चक्षुः' 'विश्वानम्' इति श्रुतेः ॥
 
अजः सर्वेश्वरः सिद्धः
सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा
सर्वयोगविनिःसृतः ॥ २४ ॥
 
6
 
न जायत इति अजः, 'न जातो न जनिष्यते' इति
श्रुतेः । 'न हि जातो न जायेय न जनिष्ये कदाचन ।
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः' इति महाभारते ।
सर्वेषामीश्वराणामीश्वरः सर्वेश्वरः, एष सर्वेश्वरः' इति
श्रुतेः । नित्यनिष्पन्नरूपत्वात् सिद्धः । सर्ववस्तुषु संविद्रुप-
त्वात्, निरतिशयरूपत्वाद्वा सिद्धिः । स्वर्गादीनां विनाश-
त्वादफलत्वम् । सर्वभूतानामादिकारणत्वात् सर्वादिः ।
स्वरूपसामर्थ्यात् न च्युतो न च्यवते न च्यविष्यते इति
अच्युतः, शाश्वत शिवमच्युतम्' इति श्रुतेः । तथा
 
6