2022-09-09 02:54:45 by ambuda-bot
This page has not been fully proofread.
स्तोत्रभाष्यम् ।
द्यमानः उत्तमो यस्मात् सः अनुत्तमः । 'यस्मात्परं नापर-
मस्ति किंचित्' इति श्रुतेः, न त्वत्समोऽस्त्यभ्यधिकः कुतो-
ऽन्यः' इति स्मृतेश्च । दैत्यादिभिः धर्षयितुं न शक्यत इति
दुराधर्षः । प्राणिनां पुण्यापुण्यात्मकं कर्म कृतं जानातीति
कृतज्ञः । पत्रपुष्पाद्यल्पमपि प्रयच्छतां मोक्षं ददातीति वा ।
पुरुषप्रयत्नः कृतिः, क्रिया वा; सर्वात्मत्वात्तदाधारतया वा
लक्ष्यते कृत्येति वा कृतिः । स्वमहिमप्रतिष्ठितत्वात् आत्म-
वान् । 'स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि' इति
श्रुतेः ॥
सुरेशः शरणं शर्म
विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः
प्रत्ययः सर्वदर्शनः ॥ २३ ॥
सुराणां देवानामीशः सुरेशः । सूपपदो वा राधातुः
शोभनदातॄणाम् ईशः सुरेशः । आर्तानामार्तिहरणत्वात् शर-
णम् । परमानन्दरूपत्वात् शर्म । विश्वस्य कारणत्वात् विश्व-
रेताः । सर्वाः प्रजा यत्सकाशादुद्भवन्ति स प्रजाभवः ।
प्रकाशरूपत्वात् अहः । कालात्मना स्थितो विष्णुः संवत्स-
।