This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
वचनाद्वा माधव: । मधुनामानमसुरं सूदितवानिति मधु-
मूदनः
 
कर्णमिश्रोद्भवं चापि मधुनाममहासुरम् ।
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥
तस्य तात वधादेव देवदानवमानवाः ।
मधुसूदन इत्याहुऋषयश्च जनार्दनम् ॥
 
ईश्वरो विक्रमी धन्वी
 
मेधावी विक्रमः क्रमः ।
 
इति महाभारते ॥
 
अनुत्तमो दुराधर्षः
 
कृतज्ञः कृतिरात्मवान् ॥ २२ ॥
 
6
 
सर्वशक्तिमत्तया ईश्वरः । विक्रमः शौर्यम्, तद्योगान वि-
क्रमी । धनुरस्यास्तीति धन्वी । श्रीह्यादित्वात् इनि: । रामः
शस्त्रभृतामहम्' इति भगवद्वचनम् । मेधा बहुप्रन्थधारण-
सामर्थ्यम्, सा यस्यास्ति सः मेधावी । 'अस्मायामेधास्र
जो विनि: ' इति विनिप्रत्यय: । विचक्रमे जगद्विश्वं तेन वि
क्रमः ; विना गरुडेन पक्षिणा क्रमाद्वा । क्रमणात्, क्रमहे-
तुत्वाद्वा क्रमः, 'क्रान्ते विष्णुम्' इति मनुवचनात् । अवि-