This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
कालेषु भवतीति शाश्वतः, 'शाश्वतं शिवमच्युतम्' इति
श्रुतेः । सञ्चिदानन्दात्मकः कृष्णः, 'कृषिभूवाचक शब्दो
णश्च निर्वृतिवाचकः । विष्णुस्तद्भावयोगाच कृष्णो भवति
शाश्वत: ' इति व्यासवचनात् ; कृष्णवर्णात्मकत्वाद्वा, 'कृष्णो
वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन' इति महाभारते ।
लोहिते अक्षिणी यस्येति लोहिताक्षः स मा वृषभो
'स
लोहिताक्षः' इति श्रुतेः । प्रलये भूतानि प्रतर्दयति हिनस्ती-
ति प्रतर्दनः । ज्ञानेश्वर्यादिगुणैः संपन्न: प्रभूतः । ऊर्ध्वाधो-
मध्यभेदेन तिसृणां ककुभामपि धामेति त्रिककुब्धाम इत्येकं
नाम । येन पुनाति यो वा पुनाति ऋषिदेवता वा तत्
पवित्रम् । 'पुव: संज्ञायाम्' 'कर्तरि चर्षिदेवतयोः' इति
पाणिनिस्मरणात् इत्रप्रत्यय: । 'अशुभानि निराचष्टे तनोति
शुभसंततिम । स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं विदुः '
इति विष्णुपुराणवचनात् कल्याणरूपत्वाद्वा मङ्गलम् । परं
सर्वभूतेभ्यः उत्कृष्टं ब्रह्म । मङ्गलं परम् इत्येकमिदं नाम स
 
;
 
"
 
विशेषणम ॥
 
५४
 
2
 
ईशानः प्राणदः प्राणो
ज्येष्ठ श्रेष्ठ प्रजापतिः ।