This page has not been fully proofread.

स्तोत्रभाध्यम ।
 
हृषीकेशोऽहमीशानो वरदो लोकभावनः । इति ।
 
अजस्य
 
सर्वजगत्कारणं पद्मं नाभौ यस्य सः पद्मनाभः,
नाभावध्येकमर्पितम्' इति श्रुतेः । अमराणां प्रभुः अमर-
प्रभुः । विश्वं कर्म क्रिया यस्य सः विश्वकर्मा । क्रियते इति
जगत् कर्म विश्वं कर्म यस्येति वा विचित्रनिर्माणशक्तिम-
त्त्वाद्वा विश्वकर्मा; त्वष्ट्रा सादृश्याद्वा । मननात मनुः ।
'नान्योऽतोऽस्ति मन्ता' इति श्रुतेः । मन्त्रो वा, प्रजापतिर्वा
मनुः । संहारसमये सर्वभूततनूकरणत्वात् त्वष्टा । त्वक्षते-
स्तनूकरणार्थात् तृच्प्रत्यय: । अतिशयेन स्थूलः स्थविष्ठः ।
पुराणः स्थविरः 'त्वेषं ह्यस्य स्थविरस्य नाम' इति बहुचा: ;
वयोवचनो वा । स्थिरत्वात् ध्रुवः । स्थविरो ध्रुव इत्येकं
नाम सविशेषणम् ॥
 
अग्राह्यः शाश्वतः कृष्णो
लोहिताक्षः प्रतर्दनः ।
 
प्रभूतस्त्रिककुब्धाम
 
6
 
पवित्रं मङ्गलं परम् ॥ २० ॥
 
कर्मेन्द्रियैः न गृह्यत इति अग्राह्यः, ' यतो वाचो निव-
र्तन्ते । अप्राप्य मनसा सह' इति श्रुतेः । शश्वत् सर्वेषु