This page has not been fully proofread.

५२
 
श्रीविष्णुसहस्रनाम-
विश्वकर्मा मनुस्त्वष्टा
 
स्थविष्टः स्थविरो ध्रुवः ॥ १९ ॥
 
शब्दादिरहितत्वान्न प्रत्यक्षगभ्यः । नाप्यनुमानगम्यः, त-
द्वयाप्तलिङ्गाभावात् । नाप्युपमानसिद्धः, निर्भागत्वेन साह -
श्याभावात् । नाप्यर्थापत्तिग्राह्यः, तद्विनानुपपद्यमानस्यासं-
भवात् । नाप्यभावगोचरः, भावरूपत्वात्, अभावसाक्षि
त्वाच्च । नापि शास्त्रप्रमाणवेद्यः, प्रमाणजन्यातिशयाभावात् ।
यद्येवम, शास्त्रयोनित्वं कथम् ? उच्यते - प्रमाणादिसाक्षि -
त्वेन प्रकाशस्वरूपस्य प्रमाणाविषयत्वेऽपि अध्यस्तात द्रूपनिव-
र्तकत्वेन शास्त्र प्रमाणकत्वमिति अप्रमेयः, साक्षिरूपत्वात् ।
हृषीकाणि इन्द्रियाणि ; तेषामीश: क्षेत्रज्ञरूपभाक् । यद्वा,
इन्द्रियाणि यस्य वशे वर्तन्ते स परमात्मा हृषीकेशः । यस्य
वा सूर्यरूपस्य चन्द्ररूपस्य च जगत्प्रीतिकरा हृष्टा: केशा
रश्मयः सः हृषीकेशः, 'सूर्यरश्मिर्हरिकेशः पुरस्तात्' इति
श्रुते । पृषोदरादित्वात्साधुत्वम् । यथोक्तं मोक्षधर्मे
 
सूर्याचन्द्रमसौ शश्वदंशुभिः केशसंज्ञितैः ।
बोधयन्स्वापयंश्चैव जगदुत्तिष्ठते पृथक् ॥
बोधनात्स्वापनाचैव जगतो हर्षणं भवेत् ।
अग्नीषोमकृतैरेवं कर्मभिः पाण्डुनन्दन ॥