2022-09-09 02:54:44 by ambuda-bot
This page has not been fully proofread.
स्तोत्रभाष्यम् ।
५१
महीं देवी विष्णुपत्नीम्' इति श्रुतेः । यथा आदित्य एक एवा-
नेकेषु जलभाजनेषु अनेकवत्प्रतिभासते, एवमनेकेषु शरीरेषु
एक एव आत्मा अनेकवत्प्रतिभासत इति आदित्यसाधर्म्या-
द्वा आदित्यः । पुष्करेणोपमिते अक्षिणी यस्येति पुष्करा-
क्षः । महान्पूजितः स्वनो नादो वा श्रुतिलक्षणो यस्य सः
महास्वनः । ' सन्महत्' इत्यादिना समासे कृते 'आन्महत :
समानाधिकरणजातीययोः' इत्यादिना आत्त्वम् । ' अस्य म
हतो भूतस्य नि. श्वसितमेतदृग्वेदो यजुर्वेदः' इति श्रुतेः ।
आदिर्जन्म; निधनं विनाश: ; तहूयं यस्य न विद्यते सः
अनादिनिधनः । अनन्तादिरूपेण विश्वं बिभर्तीति धाता ।
कर्मणां तत्फलानां च कर्ता विधाता; अनन्तादीनामपि धा-
रकत्वाद्विशेषेण दधातीति वा । धातुरुत्तमः इति नामैकंस-
विशेषणं सामानाधिकरण्येन; धातुर्विरि चादुत्कृष्ट इति वा
वैयधिकरण्येन; नामद्वयं वा; सर्वधातुभ्यः पृथिव्यादिभ्यः
उत्कृष्टश्चिद्धातुरित्यर्थः । कार्यकारणप्रपञ्चधारणाचिदेव धा-
तुः । उत्तमः सर्वेषामुद्तानाम् अतिशयेनोद्गतत्वादुत्तमः ॥
अप्रमेयो हृषीकेश:
पद्मनाभोऽमरप्रभुः ।