This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
ष्ठानत्वेन भरणात् भर्ता । प्रकर्षेण महाभूतानि अस्माज्जाय-
न्त इति प्रभवः; प्रकृष्टो भवो जन्मास्येति वा । सर्वासु क्रि-
यासु सामर्थ्यातिशयान् प्रभुः । निरुपाधिक मैश्वर्यमस्येति
ईश्वरः, ' एष सर्वेश्वरः' इति श्रुतेः ॥
 
स्वयंभूः शंभुरादित्यः
 
पुष्कराक्षो महाखनः ।
 
अनादिनिधनो धाता
 
विधाता धातुरुत्तमः ॥ १८ ॥
 
स्वयमेव भवतीति स्वयंभूः । स एव स्वयमुद्रभौ' इति
मानवं वचनम् । सर्वेषामुपरि भवति, स्वयं भवतीति वा
स्वयंभूः । येषामुपरि॒ भवति यश्चोपरि भवति तदुभयात्मना
स्वयमेव भवतीति वा, 'परिभू: स्वयंभूः' इति मन्त्रव-
र्णात् । अथवा, स्वयंभूः परमेश्वरः स्वयमेव स्वतन्त्रो भवति
न परतन्त्रः, 'पराश्चि खानि व्यतृणत्स्वयंभूः' इति मन्त्र-
वर्णात् । शं सुखं भक्तानां भावयतीति शंभुः । आदित्यम-
ण्डलान्तःस्थो हिरण्मय पुरुष: आदित्यः । द्वादशादित्येषु
विष्णुर्वा, 'आदित्यानामहं विष्णुः' इत्युक्तः । अदितेरख-
ण्डिताया मह्या अयं पतिरिति वा, 'इयं वा अदितिः '