This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
सर्वः शर्वः शिवः स्थाणु-
र्भूतादिर्निधिरव्ययः ।
संभवो भावनो भर्ता
 
6
 
प्रभवः प्रभुरीश्वरः ॥ १७ ॥
 
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् । सर्वस्य सर्व-
दा ज्ञानात् सर्वमेनं प्रचक्षते ' इति भगवद्वयासवचनात् सर्वः ।
शृणाति संहारसमये संहरति संहारयति सकला: प्रजा:
इति शर्व: । निबैगुण्यतया शुद्धत्वात शिवः । 'स ब्रह्मा स
शिवः' इत्यभेदोपदेशात् शिवादिनामभिः हरिरेव स्तूयते ।
स्थिरत्वात् स्थाणुः । भूतानामादिकारणत्वात् भूतादिः ।
प्रलयकाले अस्मिन सर्व निर्धीयते इति निधिः । 'कर्मण्य
धिकरणे च' इति किप्रत्ययः । स एव निधिर्विशेष्यते-
अव्ययः अनश्वरो निधिरित्यर्थः । स्वेच्छया समीचीनं भव-
नमस्येति संभवः, 'धर्मसंस्थापनार्थाय संभवामि युगे युगे'
इति भगवद्वचनात् । 6
अथ दुष्टविनाशाय साधूनां रक्षणाय
च । स्वेच्छया संभवाम्येवं गर्भदुःखविवर्जितः' इति च ।
सर्वेषां भोक्तॄणां फलानि भावयतीति भावनः । सर्वफलदा-
तृत्वम 'फलमत उपपत्तेः' इत्यत्र उपपादितम् । प्रपञ्चस्याधि-
SM B 1