This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
नेति योगविदां नेता, 'तेषां नित्याभियुक्तानां योगक्षेमं
वहाम्यहम्' इति भगवद्वचनात् । प्रधानं प्रकृतिर्माया ; पुरुषो
जीव: ; तयोरीश्वरः प्रधान पुरुषेश्वरः । नरस्य सिंहस्य
चावयवा यस्मिन् लक्ष्यन्ते तद्वपुर्यस्य सः नारसिंहवपुः ।
यस्य वक्षसि नित्य वसति श्रीः सः श्रीमान् । अभिरूपाः
केशा: यस्य सः केशवः । 'केशाद्वोऽन्यतरस्याम्' इति वप्र-
त्ययः प्रशंसायाम् । यद्वा, कश्च अञ्च ईशश्च त्रिमूर्तयः
केशा: ते यद्वशे वर्तन्ते सः केशवः । केशिवधाद्वा केशवः ।
'यस्मात्त्वयैष दुष्टात्मा हत. केशी जनार्दन । तस्मात्केशवना-
म्ना त्वं लोके ख्यातिं गमिष्यसि' इति विष्णुपुराणे श्रीकृष्णं
प्रति नारदवचनम् । पृषोदरादित्वाच्छन्दसाधुत्वकल्पना ।
पुरुषाणामुत्तमः पुरुषोत्तमः । अत्र न निर्धारणे' इति षष्ठी-
समासप्रतिषेधो न भवति, जात्याद्यनपेक्षया समर्थत्वात् ।
यत्र पुन: जातिगुणक्रियापेक्षया पृथक्क्रिया तत्रासमर्थत्वा -
निषेधः प्रवर्तते ; यथा - मनुष्याणां क्षत्रियः शूरतमः, गवां
कृष्णा संपन्नक्षीरतमा, अध्वगानां धावन् शीघ्रतम इति ।
अथवा पञ्चमीसमासः । तथा च भगवद्वचनम्- • यस्मात्
क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च
प्रथितः पुरुषोत्तम : ' इति ॥
 
6
 
४८