This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
स्वरूपबोधेन ईक्षते पश्यति सर्वमिति साक्षी । 'साक्षाइष्टरि
संज्ञायाम्' इति पाणिनिवचनादिनिप्रत्यय: । क्षेत्रं शरीरं
जानातीति क्षेत्रज्ञः; 'आतोऽनुपसर्गे कः' इति कप्रत्ययः ।
'क्षेत्रज्ञं चापि मां विद्धि' इति भगवद्वचनात् । 'क्षेत्राख्यानि
शरीराणि तेषां चैव यथासुखम् । तानि वेत्ति स योगात्मा
ततः क्षेत्रज्ञ उच्यते' इति ब्रह्मपुराणे । स एव न क्षरतीति
अक्षरः परमात्मा । अतेर्वा सरप्रत्ययान्तस्य रूपमक्षर
इति । एवकारात् क्षेत्रज्ञाक्षरयोरभेदः परमार्थत:, 'तत्त्वमसि'
इति श्रुतेः । चकाराद्र्यावहारिको भेदव, प्रसिद्धेरप्रमाण-
त्वान् ॥
 
योगो योगविदां नेता
प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमा
 
6
 
न्केशवः पुरुषोत्तमः ॥ १६ ॥
 
ज्ञानेन्द्रियाणि सर्वाणि निगृह्य मनसा सह । एकत्वभा-
वना योग: क्षेत्रज्ञपरमात्मनो:' तदद्वाप्यतया योगः इति यो
गविदो विदुः । योगं विदन्ति विचारयन्ति, जानन्ति, लभन्त
इति वा योगविदः । तेषां नेता ज्ञानिनां योगक्षेमवहनादि-