2022-09-09 02:54:43 by ambuda-bot
This page has not been fully proofread.
४६
श्रीविष्णुसहस्रनाम-
6
अव्ययः पुरुषः साक्षी
क्षेत्रज्ञोऽक्षर एव च ॥ १५ ॥
पूत आत्मा यस्य सः पूतात्मा, 'केवलो निर्गुणश्च'
इति श्रुतेः । गुणोपराग: स्वेच्छातः पुरुषस्येति कल्प्यते । परम-
श्वासावात्मा चेति परमात्मा कार्यकारणविलक्षणो नित्य-
शुद्धबुद्धमुक्तस्वभावः । मुक्तानां परमा प्रकृष्टा गतिर्गन्तव्या
देवता पुनरावृत्त्यसंभवात्तद्गतस्येति मुक्तानां परमा गति: ;
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते' इति भगवद्वच-
नम । नास्य व्ययो विनाशो विकारो वा विद्यत इति
अव्ययः, ' अजरोऽमरोऽव्ययः' इति श्रुतेः । पुरं शरीरं
तस्मिन् शेते इति पुरुष: 'नवद्वारं पुरं पुण्यमेतैर्भावै:
समन्वितम् । व्याप्य शेते महात्मा यस्तस्मात्पुरुष उच्यते'
इति महाभारते । यद्वा, अस्तेर्व्यत्यस्ताक्षरयोगात् आसी-
त्पुरा पूर्वमेवेति विग्रहं कृत्वा व्युत्पादितः पुरुषः, 'पूर्वमे-
वाहमिहासमिति, तत्पुरुषस्य पुरुषत्वम्' इति श्रुतेः । अथवा
पुरुषु उत्कर्षशालिषु सीदतीति, पुरुणि फलानि सनोति
ददातीति वा, पूरूणि भुवनानि संहारसमये स्यति अन्तं
करोतीति वा पूरणात्सदनाद्वा पुरुषः । 'पूरणात्सदनाच्चैव
ततोऽसौ पुरुषोत्तमः' इति पञ्चमवेद । साक्षाव्यवधानेन
।