This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
यज्ञे वा वषटुक्रिया, 'यज्ञो वै विष्णुः' इति श्रुतेः । येन
वषट्कारादिमन्त्रात्मना वा देवान् प्रीणयति स वषट्कारः ।
देवता वा, 'प्रजापतिश्च वषट्कारश्च' इति श्रुतेः। 'चतु-
भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां
स मे विष्णु प्रसीदतु' इत्यादिस्मृतेश्च । भूतभव्यभवत्प्रभुः
भूतं भव्यं भवच्चेति भूतभव्यभवन्ति तेषां प्रभुः । कालभेद-
मनादृत्य सन्मात्रप्रतियोगिकमैश्वर्यं तस्येति प्रभुत्वम् । रजो-
गुणं समाश्रित्य विरिञ्चिरूपेण भूतानि करोतीति भूतकृत् ;
तमोगुणमास्थाय स रुद्रात्मना भूतानि कृन्तति कृणोति
हिनस्तीति भूतकृत् । सत्त्वगुणमधिष्ठाय भूतानि बिभर्ति
पालयति धारयति पोषयतीति वा भूतभृत् । प्रपञ्चरूपेण
भवतीति, केवलं भवतीत्येव वा भावः । भवनं भावः
सत्तात्मको वा । भूतात्मा भूतानामात्मा अन्तर्यामी, 'एष
त आत्मा अन्तर्याम्यमृत: ' इति श्रुतेः । भूतानि भावयति
जनयति वर्धयतीति वा भूतभावनः ॥
 
भूतकृदित्यादिभिः गुणतन्त्रत्वं प्राप्तं प्रतिषिध्यते-
पूतात्मा परमात्मा च
 
मुक्तानां परमा गतिः ।