This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
श्रीमहेश्वरेणापि
 
। एतत्सर्वमभिप्रेत्य एष मे सर्वधर्माणां
धर्मोऽधिकतमो मतः' इत्याधिक्यमुक्तम् । ' किमेकं दैवतम्'
इत्यारभ्य 'किं जपन्मुच्यते जन्तुः' इति षट्प्रनेषु 'यतः
सर्वाणि' इति प्रश्नोत्तराभ्यां यद्ब्रह्मोक्तं तद्विश्वशब्देनोच्यत
इति व्याख्यातं विश्वम् । तत्किमित्याकाङ्क्षायामाह - विष्णुः
इति । तथा च ऋग्वेदे - 'आख जानन्तो नाम चिद्वि-
वक्तन महस्ते विष्णो सुमतिं भजामहे' इत्यादिवाक्यैर्विष्णो:
नामसंकीर्तनेन सम्यग्ज्ञानप्राप्तिर्विहिता । वेवेष्टि व्याप्नोतीति
विष्णुः । विषेर्व्याप्त्यभिधायिनो नुक्प्रत्ययान्तस्य रूपम् ।
देशकालवस्तुपरिच्छेदशून्य इत्यर्थः । 'अन्तर्बहिश्च तत्सर्व
व्याप्य नारायणः स्थित : ' इत्यादिश्रुतेः । विशतेर्वा नुक्प्रत्य-
यस्य रूपं विष्णुरिति ।
 
४४
 
यस्माद्विष्टमिदं सर्वे तस्य शक्त्या महात्मनः ।
तस्माद्विष्णुरिति ख्यातो विशेर्धातोः प्रवेशनात् ॥
 
इति विष्णुपुराणे ।
 
व्याप्ते मे रोदसी पार्थ क्रान्तिश्चाभ्यधिका स्थिता ।
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ॥
 
इति महाभारते ।
 
यदुहेशेनाध्वरे वषक्रियते सः वषट्कारः । यस्मिन