This page has not been fully proofread.

स्तोलभाष्यम् ।
 
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥
 
४३
 
इत्यादिवचनैः श्रद्धांभक्त्योरभावेऽपि नामसंकीर्तनं समस्तं
दुरितं नाशयतीत्युक्तम् । किमुत श्रद्धादिपूर्वकं सहस्रनाम -
संकीर्तनं नाशयतीति ।
 
6
 
'मनसा वा अग्रे संकल्पयत्यथ वाचा व्याहरति', 'यद्धि
मनसा ध्यायति तद्वाचा वदति' इति श्रुतिभ्यां स्मरणं
ध्यानं च नामसंकीर्तनेऽन्तर्भूतम् ।
 
यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने
 
विनो यत्र निवेशिते च मनसि ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः
किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥
इति विष्णुपुराणे श्रीपराशरेणोपसंहृतम् ।
 
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥
इति महाभारतान्ते भगवता श्रीवेदव्यासेनोपसंहृतम् ।
 
हरिरेकः सदा ध्येयो भवद्भिः सत्त्वसंस्थितैः ।
ओमित्येवं सदा विप्राः पठत ध्यात केशवम् ॥
 
इति हरिवंशे कैलासयात्रायां हरिरेको ध्यातव्य इत्युक्तं