2022-08-25 16:03:25 by ksankara
This page has been fully proofread once and needs a second look.
  
  
  
  स्तोत्रभाष्यम् ।
  
  
  
   
  
  
  
यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम् ।
सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम्||॥
  
  
  
तन्मयत्वेन गोविन्दमित्येतद्दालभ्य नान्यथा ।
तन्मयो वाञ्छितान्कामान्पदमाप्नोति मानवः||॥
  
  
  
इति विष्णुधर्मे ।
   
  
  
  
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
  
  
  
  
अहं हरिः सर्वमिदं जनार्दनो
   
  
  
  
नान्यत्ततः कारणकार्यजातम् ।
   
  
  
  
  इति भगवद्गीतासु ।
  
  
  
   
  
  
  
अहं हरिः सर्वमिदं जनार्दनो
नान्यत्ततः कारणकार्यजातम् ।
   
  
  
  
ईदृङ्मनो यस्य न तस्य भूयो
   
  
  
  
भवोद्भवा द्वन्द्वगदा भवन्ति।।॥ इति विष्णुपुराणे ।
  
  
  
   
  
  
  
४१
   
  
  
  
गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते ।
   
  
  
  
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥
   
  
  
  
  ‘'तस्माद्ब्रह्मैवाचार्यरूपेणावतिष्ठते' इति व्यासस्मृतेः ।
  
  
  
   
  
  
  
वरं हुतवहज्वालापुञ्जस्यान्तर्व्यवस्थितिः ।
न शौरिचिन्ताविमुखजनसंवा सवैशसम्||॥
  
  
  
   
  
  
  
इति कात्यायनवचनात् यत्व देशे वासुदेवनिन्दा तत्र वा
सो न कर्तव्यः । एतदुक्तं भवति -
   
  
  
  
—
   
यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम् ।
सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम्
तन्मयत्वेन गोविन्दमित्येतद्दालभ्य नान्यथा ।
तन्मयो वाञ्छितान्कामान्पदमाप्नोति मानवः
इति विष्णुधर्मे ।
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
अहं हरिः सर्वमिदं जनार्दनो
नान्यत्ततः कारणकार्यजातम् ।
अहं हरिः सर्वमिदं जनार्दनो
नान्यत्ततः कारणकार्यजातम् ।
ईदृङ्मनो यस्य न तस्य भूयो
भवोद्भवा द्वन्द्वगदा भवन्ति
४१
गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥
वरं हुतवहज्वालापुञ्जस्यान्तर्व्यवस्थितिः ।
न शौरिचिन्ताविमुखजनसंवा सवैशसम्
इति कात्यायनवचनात् यत्व देशे वासुदेवनिन्दा तत्र वा
सो न कर्तव्यः । एतदुक्तं भवति -
—