2022-08-21 01:38:40 by ksankara
This page has been fully proofread once and needs a second look.
  
   ४०       श्रीविष्णुसहस्रनाम -
  
अश्रद्धया दत्तमसंस्कृतं हवि-
र्भागाः षडेते तव दैत्यसत्तम ||
   
पुण्यं मद्दे॒षिणां यच्च मद्भक्तद्वेषिणां तथा ।
ऋयविऋयसक्तानां पुण्यं यच्चाग्निहोत्रणाम् ।।
   
अश्रद्धया च यद्दानं यजतां ददतां तथा ।
तत्सर्वं तव दैत्येन्द्र मत्प्रसादाद्भविष्यति ||
   
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||
   
इत्यादिस्मृतिभ्यश्च श्रद्धया स्तुतिनमस्कारादि कर्तव्यम्,
नाश्रद्धया । 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः
इति भगवद्वचनात् स्तुतिनमस्कारादिकं कर्मासात्त्विकं विगुण-
मपि श्रद्धापूर्वकं ब्रह्मणोऽभिधानत्रय प्रयोगेण सगुणं सात्त्विकं
संपादितं भवति । आत्मानं विष्णुं ध्यात्वा स्तुतिनमस्कारादि
कर्तव्यम् ।
   
नाविष्णुः कीर्तयेद्विष्णुं नाविष्णुर्विष्णुमर्चयेत् ।
नाविष्णु: संस्मरेद्विष्णुं नाविष्णुर्विष्णुमाप्नुयात् ॥
   
इति महाभारते कर्मकाण्डे ।
   
सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ ।
एवमेतानि नामानि देवदेवस्य कीर्तयेत् ।।
   
,