This page has been fully proofread once and needs a second look.

स्तोत्रभाष्यम् ।
 
प्रियहितवचनोऽस्तमानमायो
 
वसति सदा हृदि तस्य वासुदेवः ॥
वसति हृदि सनातने च तस्मि-
न्भवति पुमाञ्जगतोऽस्य सौम्यरूपः ।
क्षितिरसमतिरम्यमात्मनोऽन्तः
कथयति चारुतयैव सालपोतः ॥
 
सकलमिदमहं च वासुदेवः
 
परमपुमान्परमेश्वरः स एकः ।
 
इति मतिरचला भवत्यनन्ते
 
हृदयगते व्रज तान्विहाय दूरात् ।।
 
यमनियमविधूतकल्मषाणा-
मनुदिनमच्युतसक्तमानसानाम् ।
अपगतमदमानमत्सराणां
 
व्रज भट दूरतरेण मानवानाम् ॥
 
इत्यादिवचनैर्वैष्णवलक्षणस्य एवंप्रकारत्वाञ्च हिंसादिरहि-
विष्णो: स्तुतिनमस्कारादि कर्तव्यमिति । 'श्रद्धया दे-
अश्रद्धयादेयम्’ ‘श्रद्धयाग्निः समिध्यते' इति श्रुतेः,
 
मश्रोत्रियं श्राद्धमधीतमव्रत-
मदक्षिणं यज्ञमनृत्विजा हुतम् ।