This page has been fully proofread twice.

श्रीविष्णुसहस्रनाम-
तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।
यतितव्यं समत्वेन निर्वाणमपि चेच्छता ॥
देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ।
रूपमेतदनन्तस्य विष्णोभिर्बिन्नमिव स्थितम् ||
एतद्विजानता सर्वेवं जगत्स्थावरजङ्गमम् ।
द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं विश्वरूपधृक ।।
एवं ज्ञाते स भगवाननादि: परमेश्वरः ।
प्रसीदत्यच्युतो यस्मिन्प्रसन्ने क्लेशसंक्षयः ।।
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ||
इत्यादिवचनैश्च हिंसादिरहितेन स्तुतिनमस्कारादि कर्त-
व्यमिति दर्शयितुं विश्वशब्देन ब्रह्माभिधीयत इति वा ।
 
३८
 
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव || इति ।
न चलति निजवर्णधर्मतो यः
 
सममतिरात्मसुहृद्विपक्षपक्षे ।
न हरति न च हन्ति किंचिदुचैःच्चै:
सितमनसं तमवेहि विष्णुभक्तम् ॥
विमलमतिरमत्सरः प्रशान्त:
शुभचरितोऽखिलसत्त्व मित्रभूतः ।