This page has been fully proofread once and needs a second look.

स्तोत्रभाष्यम् ।
 
न मन्त्रादिकृतस्तात न च नैसर्गिको मम |
प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ।।
अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा ।
तस्य पापागमस्तात हेत्वभावान्न विद्यते ||
कर्मणा मनसा वाचा परपीडां करोति यः ।
तीतद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ||
सोऽहं न पापमिच्छामि न करोमि वदामि वा ।
चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ||
शारीरं मानसं वाग्जं दैवं भूतभवं तथा ।
सर्वत्र समचित्तस्य तस्य मे जायते कुतः ॥
एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी ।
कर्तव्या पण्डितैथैर्ज्ञात्वा सर्वभूतमयं हरिम् ।।
साम चोपप्रदानं च भेददण्डौ तथापरौ ।
उपाया: कथिता ह्येते मित्रादीनां च साधने ॥
तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः ।
साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥
सर्वभूतात्मके तात जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥
जडानामविवेकानामशूराणामपि प्रभो ।
भाग्यभोग्यानि राज्यानि सन्त्यनीतिमतामपि ॥
 
w
 
9