This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
नत्वाच्च । न च सर्वस्यैकात्मत्वे रागादयः संभवन्ति ।
‘तस्माच्छान्त उपासीत' इति श्रुतेः,
 
३६
 
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मन: प्रतिकूलानि परेषां न समाचरेत् ||
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन |
सुखं वा यदि वा दुःखं स योगी परमो मतः ।।
निर्गुणः परमात्मात्र देहे व्याप्य व्यवस्थितः ।
तमहं ज्ञानविज्ञेयं नावमन्ये न लगये ||
यद्यागमैर्न विन्देयं तमहं भूतभावनम् ।
क्रमेयं त्वां गिरिं चेमं हनुमानिव सागरम् ॥
बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः ।
शोच्यान्यहोऽतिमोहेन व्याप्तानीति मनीषिणाम् ।
एते भिन्नशां दैत्या विकल्पा: कथिता मया ॥
 
कृत्वाभ्युपगमं तत्र संक्षेपः श्रूयतां मम ।
विस्तार : सर्वभूतस्य विष्णोः सर्वमिदं जगत् ||
द्रष्टव्यमात्मवत्तस्माद्भेदेन विचक्षणैः ।
समुत्सृज्यासुरं भावं तस्माद्यूयं तथा वयम् ||
तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ।
सर्वत्र दैत्या: समतामुपेताः समत्वमाराधनमच्युतस्य ||