This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
त्यम्' इत्यादिभ्यः श्रुतिभ्यः ।
 
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥
 
३५
 
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पढ़ संग्रहेण प्रवक्ष्ये ॥
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥
 
..गिरामस्म्येकमक्षरम् ॥
 
आद्यं यत्रयक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता ।
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ॥
 
ओंकार: स्वर्गद्वारं तस्माद्ब्रह्मा ध्येध्यमाण एतदादि प्रति-
पद्येत । विकथां चान्यां कृत्वा एवं लौकिक्या वाचा व्याव-
र्तते ब्रह्म' । 'प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः ।
वाङ्मयं प्रणवः सर्वे तस्मात्प्रणवमभ्यसेत्' इत्यादिस्मृतिभ्यश्च
विश्वशब्देन ओंकारोऽभिधीयते । वाच्यवाचकयोरत्यन्तभे-
दाभावात् विश्वमित्योंकार एव ब्रह्मेत्यर्थः । 'सर्वे खल्विदं
ब्रह्म तज्जलानिति शान्त उपासीत' इति । एतदुक्तं भवति -
यस्मात्सर्वमिदं विकारजातं ब्रह्म तज्जत्वात् तल्लत्वात् तद्-